Subrahmanya Ashtottara Sata Namavali – Sanskrit Lyrics (Text)
Subrahmanya Ashtottara Sata Namavali – Sanskrit Script
ॐ स्कन्दाय नमः
ॐ गुहाय नमः
ॐ षण्मुखाय नमः
ॐ फालनेत्र सुताय नमः
ॐ प्रभवे नमः
ॐ पिङ्गलाय नमः
ॐ क्रुत्तिकासूनवे नमः
ॐ सिखिवाहाय नमः
ॐ द्विषन्णे त्राय नमः ॥ 10 ॥
ॐ शक्तिधराय नमः
ॐ फिशिताश प्रभञ्जनाय नमः
ॐ तारकासुर संहार्त्रे नमः
ॐ रक्षोबलविमर्द नाय नमः
ॐ मत्ताय नमः
ॐ प्रमत्ताय नमः
ॐ उन्मत्ताय नमः
ॐ सुरसैन्य स्सुरक्ष काय नमः
ॐ दीवसेनापतये नमः
ॐ प्राज्ञाय नमः ॥ 20 ॥
ॐ कृपालवे नमः
ॐ भक्तवत्सलाय नमः
ॐ उमासुताय नमः
ॐ शक्तिधराय नमः
ॐ कुमाराय नमः
ॐ क्रौञ्च दारणाय नमः
ॐ सेनानिये नमः
ॐ अग्निजन्मने नमः
ॐ विशाखाय नमः
ॐ शङ्करात्मजाय नमः ॥ 30 ॥
ॐ शिवस्वामिने नमः
ॐ गुण स्वामिने नमः
ॐ सर्वस्वामिने नमः
ॐ सनातनाय नमः
ॐ अनन्त शक्तिये नमः
ॐ अक्षोभ्याय नमः
ॐ पार्वतिप्रियनन्दनाय नमः
ॐ गङ्गासुताय नमः
ॐ सरोद्भूताय नमः
ॐ अहूताय नमः ॥ 40 ॥
ॐ पावकात्मजाय नमः
ॐ ज्रुम्भाय नमः
ॐ प्रज्रुम्भाय नमः
ॐ उज्ज्रुम्भाय नमः
ॐ कमलासन संस्तुताय नमः
ॐ एकवर्णाय नमः
ॐ द्विवर्णाय नमः
ॐ त्रिवर्णाय नमः
ॐ सुमनोहराय नमः
ॐ चतुर्व र्णाय नमः ॥ 50 ॥
ॐ पञ्च वर्णाय नमः
ॐ प्रजापतये नमः
ॐ आहार्पतये नमः
ॐ अग्निगर्भाय नमः
ॐ शमीगर्भाय नमः
ॐ विश्वरेतसे नमः
ॐ सुरारिघ्ने नमः
ॐ हरिद्वर्णाय नमः
ॐ शुभकाराय नमः
ॐ वटवे नमः ॥ 60 ॥
ॐ वटवेष भ्रुते नमः
ॐ पूषाय नमः
ॐ गभस्तिये नमः
ॐ गहनाय नमः
ॐ चन्द्रवर्णाय नमः
ॐ कलाधराय नमः
ॐ मायाधराय नमः
ॐ महामायिने नमः
ॐ कैवल्याय नमः
ॐ शङ्करात्मजाय नमः ॥ 70 ॥
ॐ विस्वयोनिये नमः
ॐ अमेयात्मा नमः
ॐ तेजोनिधये नमः
ॐ अनामयाय नमः
ॐ परमेष्टिने नमः
ॐ परब्रह्मय नमः
ॐ वेदगर्भाय नमः
ॐ विराट्सुताय नमः
ॐ पुलिन्दकन्याभर्ताय नमः
ॐ महासार स्वताव्रुताय नमः ॥ 80 ॥
ॐ आश्रित खिलदात्रे नमः
ॐ चोरघ्नाय नमः
ॐ रोगनाशनाय नमः
ॐ अनन्त मूर्तये नमः
ॐ आनन्दाय नमः
ॐ शिखिण्डिकृत केतनाय नमः
ॐ डम्भाय नमः
ॐ परम डम्भाय नमः
ॐ महा डम्भाय नमः
ॐ क्रुपाकपये नमः ॥ 90 ॥
ॐ कारणोपात्त देहाय नमः
ॐ कारणातीत विग्रहाय नमः
ॐ अनीश्वराय नमः
ॐ अमृताय नमः
ॐ प्राणाय नमः
ॐ प्राणायाम पारायणाय नमः
ॐ विरुद्दहन्त्रे नमः
ॐ वीरघ्नाय नमः
ॐ रक्तास्याय नमः
ॐ श्याम कन्धराय नमः ॥ 100 ॥
ॐ सुब्र ह्मण्याय नमः
आन् गुहाय नमः
ॐ प्रीताय नमः
ॐ ब्राह्मण्याय नमः
ॐ ब्राह्मण प्रियाय नमः
ॐ वेदवेद्याय नमः
ॐ अक्षय फलदाय नमः
ॐ वल्ली देवसेना समेत श्री सुब्रह्मण्य स्वामिने नमः ॥ 108 ॥
Showing posts with label Sanskrit. Show all posts
Showing posts with label Sanskrit. Show all posts
Subrahmanya Pancha Ratna Stotram in Sanskrit
Subrahmanya Pancha Ratna Stotram – Sanskrit Lyrics (Text)
Subrahmanya Pancha Ratna Stotram – Sanskrit Script
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 1 ॥
जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 2 ॥
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 3 ॥
सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 4 ॥
इष्टार्थसिद्धिप्रदमीशपुत्रम् इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 5 ॥
यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥
Subrahmanya Pancha Ratna Stotram – Sanskrit Script
षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 1 ॥
जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 2 ॥
द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 3 ॥
सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 4 ॥
इष्टार्थसिद्धिप्रदमीशपुत्रम् इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 5 ॥
यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥
loading..
Subrahmanya Ashtakam Karavalamba Stotram in Sanskrit
Subrahmanya Ashtakam Karavalamba Stotram – Sanskrit Lyrics (Text)
Subrahmanya Ashtakam Karavalamba Stotram – Sanskrit Script
हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 1 ॥
देवादिदेवनुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 2 ॥
नित्यान्नदान निरताखिल रोगहारिन्,
तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 3 ॥
क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 4 ॥
देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 5 ॥
हारादिरत्नमणियुक्तकिरीटहार,
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाज़्मरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 6 ॥
पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 7 ॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 8 ॥
सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
Subrahmanya Ashtakam Karavalamba Stotram – Sanskrit Script
हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 1 ॥
देवादिदेवनुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 2 ॥
नित्यान्नदान निरताखिल रोगहारिन्,
तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 3 ॥
क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 4 ॥
देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 5 ॥
हारादिरत्नमणियुक्तकिरीटहार,
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाज़्मरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 6 ॥
पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 7 ॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 8 ॥
सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
loading..
Subscribe to:
Posts (Atom)